________________
॥ श्रीगणेशायनमः ॥
अथभागवतमाहात्म्यारम्भः
प्रथमोऽध्यायः
शाण्डिल्योपदिष्टव्रजभूमिमाहात्म्यवर्णनम्
व्यास उवाच
श्रीसच्चिदानन्दघनस्वरूपिणे कृष्णाय चानन्तसुखाभिवर्षिणे ।
विश्वोद्भवस्थाननिरोधहेतवे नुमो वयं भक्तिरसाप्तयेऽनिशम् ॥ १ ॥ नैमिषे सुतमासीनमभिवाद्य महामतिम् । कथामृतरसास्वादकुशला ऋषयोऽब्रुवन् ॥
ऋषय ऊचुः
वज्रं श्रीमाथुरे देशे स्वपौत्र हस्तिनापुरे । अभिषिच्यगतेराज्ञि तौ कथं किञ्चचक्रतुः
सूत उवाच
नारायणं नमस्कृत्य नरश्चैव नरोत्तमम् | देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत् ॥ महापथं गते राज्ञि परीक्षित्पृथिवीपतिः । जगाम मथुरां विप्रा वज्रनाभदिदृक्षया पितृव्यमागतं ज्ञात्वा वज्रः प्रेमपरिप्लुतः । अभिगम्याभिवाद्याथ निनायनिजमन्दिरम् परिष्वज्य स तं वीरः कृष्णकगतमानसः । रोहिण्याद्या हरेः पत्नीर्ववन्दायतनागतः ताभिः सम्मानितोऽत्यर्थं परीक्षित्पृथिवीपतिः ।
विश्रान्तः सुखमासीनो वज्रनाभमुवाच ह ॥ ८ ॥ श्री परीक्षिदुवाच
तात त्वत्पितुभिर्ननमस्मत्पितृपितामहः । उद्धृता भूरिदुःखौवादहञ्च परिरक्षितः
प्रथमोऽध्यायः ]
* व्रजभूमिमाहात्म्यम् *
५८७
न पारयाम्यहं तात साधु कृत्वोपकारतः । त्वामतः प्रार्थयाम्यङ्गसुखंराज्येऽनुज्यताम् कोशसैन्यादिजा चिन्ता तथा रिदमनादिजा ।
मनागपि न कार्या ते सुसेव्याः किन्तु मातरः ॥ ११ ॥
निवेद्य मयि कर्तव्यं सर्वाधिपरिवर्जनम् । श्रुत्वैतत्परमप्रीतो वज्रस्तं प्रत्युवाच ह श्रीवज्रनाभ उवाच
राजन्नुचितमेतत्ते यदस्मासु प्रभाषते । त्वत्पित्रोपकृतश्चाहं धनुर्विद्याप्रदानतः ॥ १३॥ तस्मान्नात्पाऽपि मे चिन्ता क्षात्त्रं दृढमुपेयुषः ।
किन्त्वेका परमा चिन्ता तत्र किञ्चिद्विचार्यताम् ॥ १४ ॥ माथुरेत्वभिषिक्तोऽपिस्थितोऽहं निर्ज्जनेवने । क्वगतावैप्रजाऽत्रत्यायत्रराज्यम्प्ररोवते इत्युक्तोविष्णुरातस्तुनन्दादीनां पुरोहितम् । शाण्डिल्यमाजुहावाशु वज्रसन्देहनुत्तये अथोटजंविहायाऽऽशुशाण्डिल्यः समुपागतः । पूजितोवज्रनाभेननिषसादाऽऽसनोत्तमे उपोद्घातं विष्णुरातश्चकाराशु ततस्त्वसौ । उवाचपरमप्रीतस्तावुभौ परिसान्त्वयन् श्रीशाण्डिल्य उवाच
शृणुतं दत्तचित्त रहस्यं त्रजभूमिजम् । व्रजनंव्याप्तिरित्युक्त याध्यापनाद्व्रजउच्यते गुणातीतं पम्ब्रह्म व्यापकं व्रज उच्यते । सदानन्दम्परं ज्योतिर्मुक्तानां पदमव्ययम् तस्मिन्नन्दात्मजः कृष्णः सदानन्दाङ्गविग्रहः । आत्मारामश्चाऽऽप्तकामः प्रेमातैरनुभूयते ॥ २१ ॥
आत्मा तु राधिकातस्यतयैवरमणादसौ । आत्मारामतयाप्राज्ञः प्रोच्यते गूढवेदिभिः कामास्तु वाञ्छितास्तस्य गावो गोपाश्च गोपिकाः ।
नित्याः सर्वे विहाराद्या आप्तकामस्ततस्त्वयम् || २३ ||
रहस्यं त्विदमेतस्य प्रकृतेः परमुच्यते । प्रकृत्या खेलतस्तस्य लीलाऽन्यैरनुभूयते सर्गस्थित्यप्ययायत्ररजः सत्त्वतमोगुणैः । लीलैवंद्विविधातस्यवास्तवव्यावहारिकी वास्तव तत्स्वसम्वेद्या जीवानां व्यावहारिकी ।
आद्यां विना द्वितीया न द्वितीया नाद्यगा कचित् ॥ २६ ॥